श्री यमुनाष्टक (Shri Yamunashtakam)

नमामि यमुनामहं सकल सिद्धि हेतुं मुदा

मुरारि पद पंकज स्फ़ुरदमन्द रेणुत्कटाम ।



तटस्थ नव कानन प्रकटमोद पुष्पाम्बुना

सुरासुरसुपूजित स्मरपितुः श्रियं बिभ्रतीम ॥१॥



कलिन्द गिरि मस्तके पतदमन्दपूरोज्ज्वला

विलासगमनोल्लसत्प्रकटगण्ड्शैलोन्न्ता ।



सघोषगति दन्तुरा समधिरूढदोलोत्तमा

मुकुन्दरतिवर्द्धिनी जयति पद्मबन्धोः सुता ॥२॥



भुवं भुवनपावनीमधिगतामनेकस्वनैः

प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः ।



तरंगभुजकंकण प्रकटमुक्तिकावाकुका-

नितन्बतटसुन्दरीं नमत कृष्ण्तुर्यप्रियाम ॥३॥



अनन्तगुण भूषिते शिवविरंचिदेवस्तुते

घनाघननिभे सदा ध्रुवपराशराभीष्टदे ।



विशुद्ध मथुरातटे सकलगोपगोपीवृते

कृपाजलधिसंश्रिते मम मनः सुखं भावय ॥४॥



यया चरणपद्मजा मुररिपोः प्रियं भावुका

समागमनतो भवत्सकलसिद्धिदा सेवताम ।



तया सह्शतामियात्कमलजा सपत्नीवय-

हरिप्रियकलिन्दया मनसि मे सदा स्थीयताम ॥५॥



नमोस्तु यमुने सदा तव चरित्र मत्यद्भुतं

न जातु यमयातना भवति ते पयः पानतः ।



यमोपि भगिनीसुतान कथमुहन्ति दुष्टानपि

प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः ॥६॥



ममास्तु तव सन्निधौ तनुनवत्वमेतावता

न दुर्लभतमारतिर्मुररिपौ मुकुन्दप्रिये ।



अतोस्तु तव लालना सुरधुनी परं सुंगमा-

त्तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः ॥७॥



स्तुति तव करोति कः कमलजासपत्नि प्रिये

हरेर्यदनुसेवया भवति सौख्यमामोक्षतः ।



इयं तव कथाधिका सकल गोपिका संगम-

स्मरश्रमजलाणुभिः सकल गात्रजैः संगमः ॥८॥



तवाष्टकमिदं मुदा पठति सूरसूते सदा

समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः ।



तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति

स्वभावविजयो भवेत वदति वल्लभः श्री हरेः ॥९॥



॥ इति श्री वल्लभाचार्य विरचितं यमुनाष्टकं सम्पूर्णम ॥