श्री युगलाष्टकम् - कृष्ण प्रेममयी राधा (Yugal Ashtakam - Krishna Premayi Radha)

कृष्णप्रेममयी राधा राधाप्रेम मयो हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥1॥



कृष्णस्य द्रविणं राधा राधायाः द्रविणं हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥2॥



कृष्णप्राणमयी राधा राधाप्राणमयो हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥3॥



कृष्णद्रवामयी राधा राधाद्रवामयो हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥4॥



कृष्ण गेहे स्थिता राधा राधा गेहे स्थितो हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥5॥



कृष्णचित्तस्थिता राधा राधाचित्स्थितो हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥6॥



नीलाम्बरा धरा राधा पीताम्बरो धरो हरिः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥7॥



वृन्दावनेश्वरी राधा कृष्णो वृन्दावनेश्वरः ।

जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥8॥