सौराष्ट्रे सोमनाथं - द्वादश ज्योतिर्लिंग: मंत्र (Saurashtre Somanathan - Dwadas Jyotirlingani)

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।

उज्जयिन्यां महाकालम्ॐकारममलेश्वरम् ॥१॥




परल्यां वैद्यनाथं च डाकिन्यां भीमाशंकरम् ।


सेतुबंधे तु रामेशं नागेशं दारुकावने
॥२॥



वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे ।

हिमालये तु केदारम् घुश्मेशं च शिवालये ॥३॥




एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।


सप्तजन्मकृतं पापं स्मरणेन विनश्यति
॥४॥